International Journal of Contemporary Research In Multidisciplinary, 2026;5(6):34-37
संस्कृत साहित्यस्य विकासे बौद्धसाहित्यिकानां योगदानम्
Author Name: मिहिर दासः;
Paper Type: research paper
Article Information
Abstract:
संस्कृतसाहित्यस्य विकासे बौद्धसाहित्यिकानां योगदानम् अत्यन्तं महत्त्वपूर्णम् अस्ति। बौद्धाचार्यैः, दार्शनिकैः, कविभिश्च संस्कृतभाषायां विविधाः काव्यग्रन्थाः, नाटकानि, स्तोत्राणि, दर्शनग्रन्थाः तथा कथासाहित्यं विरचितम्। एतेषां ग्रन्थानां माध्यमेन संस्कृतसाहित्यस्य विषयक्षेत्रं विस्तृतं जातम्, तस्य च गौरवं वर्धितम्।
प्रारम्भे बौद्धधर्मसम्बद्धाः ग्रन्थाः पालिप्राकृतभाषयोः रचिताः आसन्, किन्तु कालान्तरे महायानबौद्धाचार्यैः संस्कृतभाषायां तथा बौद्धमिश्रसंस्कृते विविधाः ग्रन्थाः प्रणीताः। महाकविः अश्वघोषः स्वस्य बुद्धचरितम् तथा सौन्दरनन्दम् इति महाकाव्याभ्यां संस्कृतकाव्यपरम्परायां विशिष्टं स्थानं प्राप्तवान्। आर्यशूरस्य जातकमाला, कुमारलातस्य कल्पनामण्डितिका, शान्तिदेवस्य बोधिचर्यावतारः, असङ्गस्य योगाचारभूमिशास्त्रम्, वसुबन्धोः त्रिंशतिका तथा नागार्जुनस्य मूलमाध्यमिककारिका इत्यादयः ग्रन्थाः बौद्धदर्शनस्य साहित्यस्य च समृद्धिं प्रदर्शयन्ति।
नागार्जुनः, आर्यदेवः, चन्द्रकीर्तिः, शान्तिरक्षितः, दिङ्नागः, धर्मपालः इत्यादयः दार्शनिकाः संस्कृतभाषा यां दर्शनशास्त्रस्य विकासे महत्त्वपूर्णं योगदानम् अकुर्वन्। तेषां ग्रन्थैः माध्यमिकदर्शनस्य, योगाचारदर्शनस्य, तर्कशास्त्रस्य तथा ज्ञानमीमांसायाः विकासः अभवत्। बौद्धसाहित्ये करुणा, मैत्री, अहिंसा, त्यागः, प्रज्ञा, लोककल्याणम् इत्यादयः मानवीयाः आदर्शाः विशेषतया प्रतिपादिताः सन्ति।
आधुनिककालेऽपि शान्तिभिक्षुशास्त्री, ओगेटि परिक्षिच्छर्मा, सत्यव्रतशास्त्री, वीरेन्द्रकुमारभट्टाचार्यः इत्यादयः विद्वांसः बुद्धस्य जीवनमाधारीकृत्य विविधाः काव्यग्रन्थाः नाटकानि च विरचितवन्तः। तेषां रचनाभिः संस्कृतबौद्धसाहित्यस्य परम्परा समृद्धा अभवत्।
अतः स्पष्टं भवति यत् बौद्धसाहित्यिकानां योगदानं केवलं बौद्धधर्मस्य प्रचारप्रसारपर्यन्तं सीमितं नास्ति, अपितु संस्कृतकाव्यस्य, दर्शनस्य, नाट्यस्य, कथासाहित्यस्य तथा नैतिकचिन्तनस्य विकासेऽपि तेषां महत्त्वपूर्णं स्थानम् अस्ति। वस्तुतः बौद्धसाहित्यं भारतीयसंस्कृतेः तथा संस्कृतवाङ्मयस्य अमूल्यः निधिः अस्ति
Keywords:
बौद्धसाहित्यिकाः, संस्कृतसाहित्यम्, बौद्धदर्शनम्, संस्कृतकाव्यम्, साहित्यविकासः।
How to Cite this Article:
मिहिर दासः. संस्कृत साहित्यस्य विकासे बौद्धसाहित्यिकानां योगदानम्. International Journal of Contemporary Research in Multidisciplinary. 2026: 5(6):34-37
Download PDF